
अस्मिन् वर्षे अहं मिस्रदेशं गतवान् | मिस्रदेशस्य सभ्यता, भाषा, साहित्य च खलु प्राचीनाः सन्ति | नानादेवाः मिस्रजनैरपूजयन्त, यथा सूर्यदेवः, हरू (ह्:र्:व्) नाम श्येनदेवः, द्यौष् पिता (न्:ब्:प्:ट्) इत्यादयः | मिस्रदेशे बहवः पुरातनकालीनो भवनाः मया दृष्टाः, यथा बृहन्तो देवालायाः, अद्भुतरूपाः सूच्याकारस्तम्भाः, प्रकृष्टा अन्तर्भौमचैत्याश्च | अन्तर्भित्तिषु विविधानि विचित्राणि शास्त्राणि लिखितानि सन्ति, यानि पुरातनमिस्रभाषासु लिखितानि सन्ति ,अतीव सुन्दरदर्शीनि च सन्ति | अक्षराणि हि शिलायाम् शिल्पीभिरुत्कीर्णानि सन्ति, कलाकारैश्चाभिरञ्जितानि सन्ति |
एतेषु शास्त्रेषु एकं प्रसिद्धं ‘मृत्युपुस्तकम्’ अस्ति यस्य नाम ‘दिवसे निर्गमनम्’ अस्ति | एतत्पुस्तकं मरणानन्तरविषया निर्वर्णयति | बह्व्यः परीक्षा भविष्यन्ति, तद्यथा – देवा मृतपुरुषं बहवः प्रश्नाः प्रक्ष्यन्ति, पुरुषस्य हृदयं च तोलयिष्यते इत्यादिन्यः |
अत्राहं मिस्रभाषायाः संस्कृतेऽधो दर्शितस्य श्लोकस्यानुवादं चकार –
पूजयाम सूर्यदेवम् उदयादस्तपर्यन्तम् |
यदा यदा त्वमुदेति तदाऽहं पूजयामि त्वाम् ||
सूर्यास्तमनानन्तरम् प्रसुप्तोऽस्मि मम पृष्ठे |

Excellent post!
LikeLike
my Sanskrit is rusty, but i was able to read this easily. Well done Peter, and looking forward to more such Sanskrit articles in the future.
LikeLike