
दीपावल्युत्सवे यत्सत्यं तदेव विजयेदिति वयं मनोभिः संकल्पामः | शास्त्रे च विश्वचरित्रे च मुख्यमस्ति । सत्यं वद धर्मं चरेति तैत्तिरीयोपनिषदि, सत्यमेव जयते नानृतमिति च मुण्डकोपनिषदि | सत्यमवश्यं करणीयमनृतमपि न कदाचित्सहनीयम् | एवं पुनर्कथं सम्पादनीयम् ? कथं सत्यं रक्षितुं शक्नुमः ?
महात्मना गान्धिवर्येन सत्याग्रहशब्दः प्रवृत्तः । वचने च कर्मणि च नित्यं सत्यमाग्रहणमिति सत्याग्रहः । अत्र नानापुरुषाद्विचारा अन्तर्गताः सन्ति, मुख्यशो भारतवर्षात् श्रीमद्राजचन्द्रः, रष्यदेशात् तोलस्तोय, अङ्ग्लभुमेः जॉन-रस्किन् । सत्याग्रहो गान्धिवर्येस्य नित्याचारोऽऽसीत् |
दक्षिण-अफ्रि़का-देश एकं मित्रं तस्मा एकं पुस्तकं ददौ, तत्पुस्तकस्य विचाराश्च गान्धिवर्यस्य हृदये निविविश्रे । आत्मकथायाः स इदमब्रवित् –
“इदं पुस्तमेकदा पठनं प्रारब्धं न निवर्तयितुमशक्नवम् … न तस्यां रात्रावस्वपम् । अस्य पुस्तकस्यानुसारेण मम् जीवनं विकर्तुं निर्णयं चक्रे ।”
तत्पुस्तकं किमासीत्? ‘अन्तिमाय [पुरुषाय]’ नाम जॉन-रस्किन्-वर्यस्य पुस्तकमासीत् । इदं पुस्तकं गान्धिवर्येन गुजरातीभाषासु ‘सर्वोदय’ नाम अनुवादः कृतोऽस्ति । ततश्चास्मिन्पुस्तके स इदं विवरणमकरोत् –
“अहं मन्ये पुस्तकस्योपदेश एतदस्ति – व्यक्तिहितं सर्वलोकहितव्याप्तमस्ति – यस्मात् कर्मणो लोकस्योपजीवनं तस्मादधिवक्तुः कर्म नापितस्य कर्म च सदृशौ स्तः – कर्षकस्य वा पाणिघस्य वा जीवनं वरं जीवनीयम् ।”
https://en.wikipedia.org/wiki/Sarvodaya
गान्धिवर्यस्यास्मात् विचारात् फि़लिप्-ग्लास्-वर्यः सत्याग्रहनाम्ना एकं नाट्यमविरचत् –
Leave a comment