ल्येतुवा-देशात् तृणमणि-विषय एकाऽऽख्यायिका

ल्येतुवा-देशे तृणमणिः (मम छायाचित्रम्)

पुरा त्वाकाशे सूर्यौ द्वावेवास्ताम् ।

तदनन्तरं देवाः निश्चयमकुर्वन् – मा द्वौ सूर्यावाकाशे रराजताम् । 

ते देवा एकं सूर्यमाकाशादक्षिपन् । 

सः सूर्यो महासागरं प्राविशत् । 

तत्र शीतलः कठोरश्चाभवत् । 

तदा सागरतले सङ्घट्ट्य सुसंपिष्टोऽभवत् । 

बहवः खण्डा उत्पन्ना आसन् । 

तत्पश्चादिमे तरङ्गमथिताः खण्डा बृहन्तश्च​ क्षुद्राश्च​ समुद्रतीरे दृष्टाः सन्ति ।


Posted

in

by

Comments

Leave a comment